|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.86. अध्यायः 086
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णागमनश्रवणहृष्टेन धृतराष्ट्रेण विदुरपुरतः समेष्यते तस्मै रथगजादिवितरणप्रतिज्ञा ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-86-0x(3647)(34808)
उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः।
वृकस्थले निवसति स च प्रातरिहैष्यति ॥ 5-86-1(34809)
आहुकानामधिपतिः पुरोगः सर्वसात्वताम्।
महामना महावीर्यो महासत्वो जनार्दनः ॥ 5-86-2(34810)
स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः ।
त्रयाणामपि लोकानां भगवान्प्रपितामहः ॥ 5-86-3(34811)
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते।
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ॥ 5-86-4(34812)
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने ।
प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः श्रुणु ॥ 5-86-5(34813)
एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः।
चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ॥ 5-86-6(34814)
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः।
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव ॥ 5-86-7(34815)
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् ।
शतमस्मै प्रदास्यामि दासानामपि तावताम् ॥ 5-86-8(34816)
आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् ।
तदप्यस्मै प्रदास्यामि सहस्त्राणि दाशाष्ट च ॥ 5-86-9(34817)
अजिनानां सहस्राणि चीनदेशोद्भवानि च।
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ॥ 5-86-10(34818)
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः ।
तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः ॥ 5-86-11(34819)
एकेनाभिपतत्यह्ना योजनानि चतुर्दश ।
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ॥ 5-86-12(34820)
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते ।
ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ॥ 5-86-13(34821)
मम पुत्राश्च पौत्रश्च सर्वे दुर्योधनादृते।
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः ॥ 5-86-14(34822)
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः।
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ॥ 5-86-15(34823)
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् ।
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ॥ 5-86-16(34824)
सस्त्रीपुरुषबालं च नगरं मधुसूदनम् ।
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः ॥ 5-86-17(34825)
महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः।
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥ 5-86-18(34826)
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् ।
तदद्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ॥ 5-86-19(34827)
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् ।
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥ 5-86-20(34828)
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च।
यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम् ॥ ॥ 5-86-21(34829)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वमि षडशीतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-86-3 प्रपितामहः पितामहस्य ब्रह्मणोपि पिता ॥ 5-86-7 ईषा लाङ्गलदण्डस्तत्सदृशदन्तान्। अष्टौ अनुचराः यस्य गजस्य ॥ 5-86-20 सर्वर्तु सर्वे ऋतवो युगपदस्मिन्सन्तीति तथा ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|